Sukta 7.63
विभ्राजमान उषसामुपस्थाद्रेभैरुदेत्यनुमद्यमानः । एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥
वि॒भ्राज॑मान उ॒षसा॑मु॒पस्था॑द्रे॒भैरुदे॑त्यनुम॒द्यमा॑नः । ए॒ष मे॑ दे॒वः स॑वि॒ता च॑च्छन्द॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ॥
vibhrā́jamāna uṣásām upásthād rebháir úd ety anumádyamānaḥ | eṣá me deváḥ savitā́ cacchanda yáḥ samānáṃ ná praminā́ti dhā́ma ||
Shining forth from the lap of the Dawns, he rises with the seers’ chant, rejoicing as he advances. This god Savitṛ has consented to my aspiration—he who does not diminish the constant station of the Light (the established law of the inner home).
वि॒ऽभ्राज॑मानः । उ॒षसा॑म् । उ॒पऽस्था॑त् । रे॒भैः । उत् । ए॒ति॒ । अ॒नु॒ऽम॒द्यमा॑नः । ए॒षः । मे॒ । दे॒वः । स॒वि॒ता । च॒च्छ॒न्द॒ । यः । स॒मा॒नम् । न । प्र॒ऽमि॒नाति॑ । धाम॑ ॥विभ्राजमानः । उषसाम् । उपस्थात् । रेभैः । उत् । एति । अनुमद्यमानः । एषः । मे । देवः । सविता । चच्छन्द । यः । समानम् । न । प्रमिनाति । धाम ॥vi-bhrājamānaḥ | uṣasām | upa-sthāt | rebhaiḥ | ut | eti | anu-madyamānaḥ | eṣaḥ | me | devaḥ | savitā | cacchanda | yaḥ | samānam | na | pra-mināti | dhāma