Sukta 7.63
उद्वेति प्रसवीता जनानां महान्केतुरर्णवः सूर्यस्य । समानं चक्रं पर्याविवृत्सन्यदेतशो वहति धूर्षु युक्तः ॥
उद्वे॑ति प्रसवी॒ता जना॑नां म॒हान्के॒तुर॑र्ण॒वः सूर्य॑स्य । स॒मा॒नं च॒क्रं प॑र्या॒विवृ॑त्स॒न्यदे॑त॒शो वह॑ति धू॒र्षु यु॒क्तः ॥
úd véti prasavītā́ jánānāṃ mahā́n ketúr arṇaváḥ sū́ryasya | samānáṃ cakráṃ paryā́vivṛtsan yád etaśó váhati dhū́rṣu yuktáḥ ||
Up rises the Impeller of peoples, the great Sign—ocean-vast—of the Sun; he turns the same wheel around and around, and the steed Etaśa, yoked to the shafts, bears him onward: the constant law of the journey of light.
उत् । ऊँ॒ इति॑ । ए॒ति॒ । प्र॒ऽस॒वी॒ता । जना॑नाम् । म॒हान् । के॒तुः । अ॒र्ण॒वः । सूर्य॑स्य । स॒मा॒नम् । च॒क्रम् । प॒रि॒ऽआ॒विवृ॑त्सन् । यत् । ए॒त॒शः । वह॑ति । धू॒र्षु । यु॒क्तः ॥उत् । ऊँ इति । एति । प्रसवीता । जनानाम् । महान् । केतुः । अर्णवः । सूर्यस्य । समानम् । चक्रम् । परिआविवृत्सन् । यत् । एतशः । वहति । धूर्षु । युक्तः ॥ut | oṃ iti | eti | pra-savītā | janānām | mahān | ketuḥ | arṇavaḥ | sūryasya | samānam | cakram | pari-āvivṛtsan | yat | etaśaḥ | vahati | dhūrṣu | yuktaḥ