Sukta 7.63
उद्वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् । चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक्तमांसि ॥
उद्वे॑ति सु॒भगो॑ वि॒श्वच॑क्षा॒: साधा॑रण॒: सूर्यो॒ मानु॑षाणाम् । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे॑व॒ यः स॒मवि॑व्य॒क्तमां॑सि ॥
úd véti subhágo viśvácakṣāḥ sā́dhāraṇaḥ sū́ryo mā́nuṣāṇām | cákṣur mitrásya váruṇasya deváś cármeva yáḥ samávivyak támāṃsi ||
Up rises the luminous and fortunate Sun, the all-seeing Power held in common by all human beings—he is the eye of Mitra and of Varuṇa; like a skin drawn wide, he spreads out and makes manifest the hidden darknesses (so they can be overcome).
उत् । ऊँ॒ इति॑ । ए॒ति॒ । सु॒ऽभगः॑ । वि॒श्वऽच॑क्षाः । साधा॑रणः । सूर्यः॑ । मानु॑षाणाम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । दे॒वः । चर्म॑ऽइव । यः । स॒म्ऽअवि॑व्यक् । तमां॑सि ॥उत् । ऊँ इति । एति । सुभगः । विश्वचक्षाः । साधारणः । सूर्यः । मानुषाणाम् । चक्षुः । मित्रस्य । वरुणस्य । देवः । चर्मइव । यः । सम्अविव्यक् । तमांसि ॥ut | oṃ iti | eti | su-bhagaḥ | viśva-cakṣāḥ | sādhāraṇaḥ | sūryaḥ | mānuṣāṇām | cakṣuḥ | mitrasya | varuṇasya | devaḥ | carma-iva | yaḥ | sam-avivyak | tamāṃsi