Sukta 7.59
नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः । अभि व आवर्त्सुमतिर्नवीयसी तूयं यात पिपीषवः ॥
न॒हि व॑ ऊ॒तिः पृत॑नासु॒ मर्ध॑ति॒ यस्मा॒ अरा॑ध्वं नरः । अ॒भि व॒ आव॑र्त्सुम॒तिर्नवी॑यसी॒ तूयं॑ यात पिपीषवः ॥
náhi va ūtíḥ pṛ́tanāsu márdhati yásmā arā́dhvaṃ naraḥ | abhí va ā́vart sumatír navī́yasī tū́yaṃ yāta pipīṣavaḥ ||
Your help is never crushed in the battles for him whom you have satisfied, O heroic ones. Toward you turns a newer and newer right-mindedness; come swiftly, you who thirst to increase our plenitude.
न॒हि । वः॒ । ऊ॒तिः । पृत॑नासु । मर्ध॑ति । यस्मै॑ । अरा॑ध्वम् । न॒रः॒ । अ॒भि । वः॒ । आ । अ॒वा॒र्त् । सु॒ऽम॒तिः । नवी॑यसी । तूय॑म् । या॒त॒ । पि॒पी॒ष॒वः॒ ॥नहि । वः । ऊतिः । पृतनासु । मर्धति । यस्मै । अराध्वम् । नरः । अभि । वः । आ । अवार्त् । सुमतिः । नवीयसी । तूयम् । यात । पिपीषवः ॥nahi | vaḥ | ūtiḥ | pṛtanāsu | mardhati | yasmai | arādhvam | naraḥ | abhi | vaḥ | ā | avārta | su-matiḥ | navīyasī | tūyam | yāta | pipīṣavaḥ