Sukta 7.56
भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित् । मरुद्भिरुग्रः पृतनासु साळ्हा मरुद्भिरित्सनिता वाजमर्वा ॥
भूरि॑ चक्र मरुत॒: पित्र्या॑ण्यु॒क्थानि॒ या व॑: श॒स्यन्ते॑ पु॒रा चि॑त् । म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साळ्हा॑ म॒रुद्भि॒रित्सनि॑ता॒ वाज॒मर्वा॑ ॥
bhū́ri cakra marutaḥ pitryā́ṇy ukthā́ni yā́ vaḥ śásyante purā́ cit | marúdbhir ugráḥ pṛ́tanāsu sā́ḷhā marúdbhir ít sánitā vā́jam árvā ||
Much have you done, O Maruts—those ancestral hymns that were sung to you even of old. With the Maruts the fierce one becomes a conqueror in battles; with the Maruts indeed the steed wins the plenitude of force.
भूरि॑ । च॒क्र॒ । म॒रु॒तः॒ । पित्र्या॑णि । उ॒क्थानि॑ । या । वः॒ । श॒स्यन्ते॑ । पु॒रा । चि॒त् । म॒रुत्ऽभिः॑ । उग्रः । पृत॑नासु । साळ्हा॑ । म॒रुत्ऽभिः॑ । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥भूरि । चक्र । मरुतः । पित्र्याणि । उक्थानि । या । वः । शस्यन्ते । पुरा । चित् । मरुत्भिः । उग्रः । पृतनासु । साळ्हा । मरुत्भिः । इत् । सनिता । वाजम् । अर्वा ॥bhūri | cakra | marutaḥ | pitryāṇi | ukthāni | yā | vaḥ | śasyante | purā | cit | marut-bhi ḥ | ugraḥ | pṛtanāsu | sāḷhā | marut-bhiḥ | it | sanitā | vājam | arvā