Sukta 7.56
सं यद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु । अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः ॥
सं यद्धन॑न्त म॒न्युभि॒र्जना॑स॒: शूरा॑ य॒ह्वीष्वोष॑धीषु वि॒क्षु । अध॑ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो॑ भूत॒ पृत॑नास्व॒र्यः ॥
sáṃ yád dhánanta manyúbhir jánāsaḥ śūrā́ yahvī́ṣv óṣadhīṣu vikṣú | ádha smā no maruto rudriyāsas trā́tāro bhūta pṛ́tanāsv aryáḥ ||
When men, driven by wrath, strike together—heroes amid the strong streams, the plants, and the clans—then, O Maruts, Rudra-born, become our protectors in the battles, O noble ones.
सम् । यत् । हन॑न्त । म॒न्युऽभिः॑ । जना॑सः । शूराः॑ । य॒ह्वीषु॑ । ओष॑धीषु । वि॒क्षु । अध॑ । स्म॒ । नः॒ । म॒रु॒तः॒ । रु॒द्रि॒या॒सः॒ । त्रा॒तारः॑ । भू॒त॒ । पृत॑नासु । अ॒र्यः ॥सम् । यत् । हनन्त । मन्युभिः । जनासः । शूराः । यह्वीषु । ओषधीषु । विक्षु । अध । स्म । नः । मरुतः । रुद्रियासः । त्रातारः । भूत । पृतनासु । अर्यः ॥sam | yat | hananta | manyu-bhiḥ | janāsaḥ | śūrāḥ | yahvīṣu | oṣadhīṣu | vikṣu | adha | sma | naḥ | marutaḥ | rudriyāsaḥ | trātāraḥ | bhūta | pṛtanāsu | aryaḥ