Sukta 7.56
अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता । अपो येन सुक्षितये तरेमाध स्वमोको अभि वः स्याम ॥
अ॒स्मे वी॒रो म॑रुतः शु॒ष्म्य॑स्तु॒ जना॑नां॒ यो असु॑रो विध॒र्ता । अ॒पो येन॑ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको॑ अ॒भि व॑: स्याम ॥
asmē vīró marutaḥ śuṣmy astu jánānāṃ yó ásuro vidhartā́ | apó yéna sukṣitáye tárēmā́dha svám óko abhí vaḥ syāma ||
In us, O Maruts, let there be a hero full of force—the Asura, the disposer among men. By him may we cross the waters toward a good dwelling; then may we come to our own home, in your presence.
अ॒स्मे इति॑ । वी॒रः । म॒रु॒तः॒ । शु॒ष्मी । अ॒स्तु॒ । जना॑नाम् । यः । असु॑रः । वि॒ऽध॒र्ता । अ॒पः । येन॑ । सु॒ऽक्षि॒तये॑ । तरे॑म । अध॑ । स्वम् । ओकः॑ । अ॒भि । वः॒ । स्या॒म॒ ॥अस्मे इति । वीरः । मरुतः । शुष्मी । अस्तु । जनानाम् । यः । असुरः । विधर्ता । अपः । येन । सुक्षितये । तरेम । अध । स्वम् । ओकः । अभि । वः । स्याम ॥asme iti | vīraḥ | marutaḥ | śuṣmī | astu | janānām | yaḥ | asuraḥ | vi-dhartā | apaḥ | yena | su-kṣitaye | tarema | adha | svam | okaḥ | abhi | vaḥ | syāma