Sukta 7.56
मा वो दात्रान्मरुतो निरराम मा पश्चाद्दघ्म रथ्यो विभागे । आ नः स्पार्हे भजतना वसव्ये यदीं सुजातं वृषणो वो अस्ति ॥
मा वो॑ दा॒त्रान्म॑रुतो॒ निर॑राम॒ मा प॒श्चाद्द॑घ्म रथ्यो विभा॒गे । आ न॑: स्पा॒र्हे भ॑जतना वस॒व्ये॒३॒॑ यदीं॑ सुजा॒तं वृ॑षणो वो॒ अस्ति॑ ॥
mā́ vo dātrā́n maruto nír arāma mā́ paścā́d daghma rathyó vibhāgé | ā́ naḥ spārhé bhajatana vasavyè yád īṃ sujātáṃ vṛṣaṇo vo ásti ||
Do not cut us off, O Maruts, from your gifts; do not place us behind in the division on the chariot-road. Share with us the desirable wealth of the Vasus, since in you, O strong ones, there is the well-born power to give.
मा । वः॒ । दा॒त्रात् । म॒रु॒तः॒ । निः । अ॒रा॒म॒ । मा । प॒श्चात् । द॒ध्म॒ । र॒थ्यः॒ । वि॒ऽभा॒गे । आ । नः॒ । स्पा॒र्हे । भ॒ज॒त॒न॒ । व॒स॒व्ये॑ । यत् । ई॒म् । सु॒ऽजा॒तम् । वृ॒ष॒णः॒ । वः॒ । अस्ति॑ ॥मा । वः । दात्रात् । मरुतः । निः । अराम । मा । पश्चात् । दध्म । रथ्यः । विभागे । आ । नः । स्पार्हे । भजतन । वसव्ये । यत् । ईम् । सुजातम् । वृषणः । वः । अस्ति ॥mā | vaḥ | dātrāt | marutaḥ | niḥ | arāma | mā | paścāt | dadhma | rathyaḥ | vi-bhāge | ā | naḥ | spārhe | bhajatana | vasavye | yat | īm | su-jātam | vṛṣaṇaḥ | vaḥ | asti