Sukta 7.56
इमे रध्रं चिन्मरुतो जुनन्ति भृमिं चिद्यथा वसवो जुषन्त । अप बाधध्वं वृषणस्तमांसि धत्त विश्वं तनयं तोकमस्मे ॥
इ॒मे र॒ध्रं चि॑न्म॒रुतो॑ जुनन्ति॒ भृमिं॑ चि॒द्यथा॒ वस॑वो जु॒षन्त॑ । अप॑ बाधध्वं वृषण॒स्तमां॑सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ॥
imé radhráṃ cit marúto junanti bhṛ́miṃ cid yáthā vásavo juṣánta | ápa bādhadhvaṃ vṛ́ṣaṇas támāṃsi dháttá víśvaṃ tánayaṃ tókám asmē ||
These Maruts drive forward even the slack and the stumbling, as the Vasus take delight in the right movement. O strong ones, thrust away the darknesses; establish in us the whole formation—our lineage and our growing powers.
इ॒मे । र॒ध्रम् । चि॒त् । म॒रुतः॑ । जु॒न॒न्ति॒ । भृमि॑म् । चि॒त् । यथा॑ । वस॑वः । जु॒षन्त॑ । अप॑ । बा॒ध॒ध्व॒म् । वृ॒ष॒णः॒ । तमां॑सि । ध॒त्त । विश्व॑म् । तन॑यम् । तो॒कम् । अ॒स्मे इति॑ ॥इमे । रध्रम् । चित् । मरुतः । जुनन्ति । भृमिम् । चित् । यथा । वसवः । जुषन्त । अप । बाधध्वम् । वृषणः । तमांसि । धत्त । विश्वम् । तनयम् । तोकम् । अस्मे इति ॥ime | radhram | cit | marutaḥ | junanti | bhṛmim | cit | yathā | vasavaḥ | juṣanta | apa | bādhadhvam | vṛṣaṇaḥ | tamāṃsi | dhatta | viśvam | tanayam | tokam | asme iti