Sukta 7.56
इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति । इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ॥
इ॒मे तु॒रं म॒रुतो॑ रामयन्ती॒मे सह॒: सह॑स॒ आ न॑मन्ति । इ॒मे शंसं॑ वनुष्य॒तो नि पा॑न्ति गु॒रु द्वेषो॒ अर॑रुषे दधन्ति ॥
imé turáṃ marúto rāmayantīmē sáhaḥ sáhasa ā́ namanti | imé śáṃsaṃ vanuṣyató ní pānti gurú dvéṣo áraruṣe dadhanti ||
These Maruts gladden the swift force; these powers of might bow down to the Might itself. These guard the praise of the seeker; for the hostile and furious they lay down a heavy hate, a weight that breaks the adversary.
इ॒मे । तु॒रम् । म॒रुतः॑ । र॒म॒य॒न्ति॒ । इ॒मे । सहः॑ । सह॑सः । आ । न॒म॒न्ति॒ । इ॒मे । शंस॑म् । व॒नु॒ष्य॒तः । नि । पा॒न्ति॒ । गु॒रु । द्वेषः॑ । अर॑रुषे । द॒ध॒न्ति॒ ॥इमे । तुरम् । मरुतः । रमयन्ति । इमे । सहः । सहसः । आ । नमन्ति । इमे । शंसम् । वनुष्यतः । नि । पान्ति । गुरु । द्वेषः । अररुषे । दधन्ति ॥ime | turam | marutaḥ | ramayanti | ime | sahaḥ | sahasaḥ | ā | namanti | ime | śaṃsam | vanuṣyataḥ | ni | pānti | guru | dveṣaḥ | araruṣe | dadhanti