Sukta 7.56
आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गृणानः । य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥
आ वो॒ होता॑ जोहवीति स॒त्तः स॒त्राचीं॑ रा॒तिं म॑रुतो गृणा॒नः । य ईव॑तो वृषणो॒ अस्ति॑ गो॒पाः सो अद्व॑यावी हवते व उ॒क्थैः ॥
ā́ vo hótā johavīti sattáḥ satrā́cīṃ rātíṃ maruto gṛṇānā́ḥ | yá ī́vato vṛ́ṣaṇo ásti gopā́ḥ só advayāvī havate vo ukthaíḥ ||
The Hotṛ, seated in the truth of the rite, calls you, O Maruts, praising you for the straight-going gift. He who is the impelling bull-force, the guardian of the rays, that undivided seeker calls you with inspired hymns.
आ । वः॒ । होता॑ । जो॒ह॒वी॒ति॒ । स॒त्तः । स॒त्राची॑ । रा॒तिम् । म॒रु॒तः॒ । गृ॒णा॒नः । यः । ईव॑तः । वृ॒ष॒णः॒ । अस्ति॑ । गो॒पाः । सः । अद्व॑यावी । ह॒व॒ते॒ । वः॒ । उ॒क्थैः ॥आ । वः । होता । जोहवीति । सत्तः । सत्राची । रातिम् । मरुतः । गृणानः । यः । ईवतः । वृषणः । अस्ति । गोपाः । सः । अद्वयावी । हवते । वः । उक्थैः ॥ā | vaḥ | hotā | johavīti | sattaḥ | satrācī | rātim | marutaḥ | gṛṇānaḥ | yaḥ | īvataḥ | vṛṣaṇaḥ | asti | gopāḥ | saḥ | advayāvī | havate | vaḥ | ukthaiḥ