Sukta 7.56
शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः । ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः ॥
शुची॑ वो ह॒व्या म॑रुत॒: शुची॑नां॒ शुचिं॑ हिनोम्यध्व॒रं शुचि॑भ्यः । ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आय॒ञ्छुचि॑जन्मान॒: शुच॑यः पाव॒काः ॥
śucī́ vo havyā́ marutaḥ śucī́nāṃ śúciṃ hinomy adhvaráṃ śúci-bhyaḥ | ṛténa satyám ṛta-sā́pa āyán śúci-janmānaḥ śúcayaḥ pāvakā́ḥ ||
Pure are your offerings, O Maruts, of the pure; for the pure ones I set in motion the pure rite. By ṛta you come to the truth—O you who win by ṛta—pure-born, pure, blazing-purifiers.
शुची॑ । वः॒ । ह॒व्या । म॒रु॒तः॒ । शुची॑नाम् । शुचि॑म् । हि॒नो॒मि॒ । अ॒ध्व॒रम् । शुचि॑ऽभ्यः । ऋ॒तेन॑ । स॒त्यम् । ऋ॒त॒ऽसापः॑ । आ॒य॒न् । शुचि॑ऽजन्मानः । शुच॑यः । पा॒व॒काः ॥शुची । वः । हव्या । मरुतः । शुचीनाम् । शुचिम् । हिनोमि । अध्वरम् । शुचिभ्यः । ऋतेन । सत्यम् । ऋतसापः । आयन् । शुचिजन्मानः । शुचयः । पावकाः ॥śucī | vaḥ | havyā | marutaḥ | śucīnām | śucim | hinomi | adhvaram | śuci-bhyaḥ | ṛtena | satyam | ṛta-sāpaḥ | āyan | śuci-janmānaḥ | śucayaḥ | pāvakāḥ