Sukta 7.56
अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः । वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यच्छमानाः ॥
अंसे॒ष्वा म॑रुतः खा॒दयो॑ वो॒ वक्ष॑स्सु रु॒क्मा उ॑पशिश्रिया॒णाः । वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒ना अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ॥
aṃséṣv ā́ marutaḥ khādayó vo váksaḥsu rukmā́ upaśiśriyāṇā́ḥ | ví vidyúto ná vṛṣṭíbhī rucānā́ ánu svadhā́m ā́yudhair yácchamānāḥ ||
On your shoulders, O Maruts, are fastened the biting (weapons); on your chests the golden splendours rest. Shining out like lightnings with the rains, you move according to your own law, directing your weapons.
अंसे॑षु । आ । म॒रु॒तः॒ । खा॒दयः॑ । वः॒ । वक्षः॑ऽसु । रु॒क्माः । उ॒प॒ऽशि॒श्रि॒या॒णाः । वि । वि॒द्युतः॑ । न । वृ॒ष्टिऽभिः॑ । रु॒चा॒नाः । अनु॑ । स्व॒धाम् आयु॑धै॒र् यच्छ॑मानाः ॥अंसेषु । आ । मरुतः । खादयः । वः । वक्षःसु । रुक्माः । उपशिश्रियाणाः । वि । विद्युतः । न । वृष्टिभिः । रुचानाः । अनु । स्वधाम् आयुधैर् यच्छमानाः ॥aṃseṣu | ā | marutaḥ | khādayaḥ | vaḥ | vakṣaḥ-su | rukmāḥ | upa-śiśriyāṇāḥ | vi | vidyutaḥ | na | vṛṣṭi-bhiḥ | rucānāḥ | anu | svadhām āyudhair yacchamānāḥ