Sukta 7.56
प्रिया वो नाम हुवे तुराणामा यत्तृपन्मरुतो वावशानाः ॥
प्रि॒या वो॒ नाम॑ हुवे तु॒राणा॒मा यत्तृ॒पन्म॑रुतो वावशा॒नाः ॥
priyā́ vo nā́ma huve turā́ṇām ā́ yát tṛpán maruto vāvaśānā́ḥ ||
I call by the beloved name of you swift ones, so that you may come—O Maruts, eager in your joy—and be satisfied.
प्रि॒या । वः॒ । नाम॑ । हु॒वे॒ । तु॒राणा॑म् । आ । यत् । तृ॒पत् । म॒रु॒तः॒ । वा॒व॒शा॒नाः ॥प्रिया । वः । नाम । हुवे । तुराणाम् । आ । यत् । तृपत् । मरुतः । वावशानाः ॥priyā | vaḥ | nāma | huve | turāṇām | ā | yat | tṛpat | marutaḥ | vāvaśānāḥ