Sukta 7.51
आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः । अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य ॥
आ॒दि॒त्यासो॒ अदि॑तिर्मादयन्तां मि॒त्रो अ॑र्य॒मा वरु॑णो॒ रजि॑ष्ठाः । अ॒स्माकं॑ सन्तु॒ भुव॑नस्य गो॒पाः पिब॑न्तु॒ सोम॒मव॑से नो अ॒द्य ॥
ādityā́so áditiḥ mādayantāṃ mitró aryamā́ váruṇo rájiṣṭhāḥ | asmā́kaṃ santu bhúvanasya gopā́ḥ píbantu sómam ávase no adyá ||
May the Ādityas and Aditi be gladdened; Mitra, Aryaman, and Varuṇa—strong in their luminous straightness—may they be our guardians of the world. Let them drink the Soma for our fostering today: the delight that increases their action in us.
आ॒दि॒त्यासः॑ । अदि॑तिः । मा॒द॒य॒न्ता॒म् । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । रजि॑ष्ठाः । अ॒स्माक॑म् । स॒न्तु॒ । भुव॑नस्य । गो॒पाः । पिब॑न्तु । सोम॑म् । अव॑से । नः॒ । अ॒द्य ॥आदित्यासः । अदितिः । मादयन्ताम् । मित्रः । अर्यमा । वरुणः । रजिष्ठाः । अस्माकम् । सन्तु । भुवनस्य । गोपाः । पिबन्तु । सोमम् । अवसे । नः । अद्य ॥ādityāsaḥ | aditiḥ | mādayantām | mitraḥ | aryamā | varuṇaḥ | rajiṣṭhāḥ | asmākam | santu | bhuvanasya | gopāḥ | pibantu | somam | avase | naḥ | adya