Sukta 7.51
आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शंतमेन । अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥
आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥
ādityā́nām ávasā nū́tanena sakṣī́mahi śármaṇā śáṃtamena | anāgā́stve aditi-tvé turā́sa imáṃ yajñáṃ dadhatu śróṣamāṇāḥ ||
By the ever-new help of the Ādityas may we be in their companionship and shelter—by the most peace-giving protection. In the state of blamelessness, in the wideness of Aditi, may the swift powers establish this sacrifice, listening to our call.
आ॒दि॒त्याना॑म् । अव॑सा । नूत॑नेन । स॒क्षी॒महि॑ । शर्म॑णा । शम्ऽत॑मेन । अ॒ना॒गाःऽत्वे । अ॒दि॒ति॒ऽत्वे । तु॒रासः॑ । इ॒मम् । य॒ज्ञम् । द॒ध॒तु॒ । श्रोष॑माणाः ॥आदित्यानाम् । अवसा । नूतनेन । सक्षीमहि । शर्मणा । शम्तमेन । अनागाःत्वे । अदितित्वे । तुरासः । इमम् । यज्ञम् । दधतु । श्रोषमाणाः ॥ādityānām | avasā | nūtanena | sakṣīmahi | śarmaṇā | śam-tamena | anāgāḥ-tve | aditi-tve | turāsaḥ | imam | yajñam | dadhatu | śroṣamāṇāḥ