Sukta 7.50
यच्छल्मलौ भवति यन्नदीषु यदोषधीभ्यः परि जायते विषम् । विश्वे देवा निरितस्तत्सुवन्तु मा मां पद्येन रपसा विदत्त्सरुः ॥
यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्य॒: परि॒ जाय॑ते वि॒षम् । विश्वे॑ दे॒वा निरि॒तस्तत्सु॑वन्तु॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरु॑: ॥
yác chalmaláu bhávati yán nadī́ṣu yád óṣadhībhyaḥ pári jā́yate viṣám | víśve devā́ nír itás tát suvantu mā́ māṃ padyéna rápasā vidat tsarúḥ ||
Whether the poison comes to be in the śalmali, or in the rivers, or is born out of the plants, may all the gods press it out and drive it away from here; let not the stinging hostile power reach me by stealthy step or violent assault.
यत् । श॒ल्म॒लौ । भव॑ति । यत् । न॒दीषु॑ । यत् । ओष॑धीभ्यः । परि॑ । जाय॑ते । वि॒षम् । विश्वे॑ । दे॒वाः । निः । इ॒तः । तत् । सु॒व॒न्तु॒ । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥यत् । शल्मलौ । भवति । यत् । नदीषु । यत् । ओषधीभ्यः । परि । जायते । विषम् । विश्वे । देवाः । निः । इतः । तत् । सुवन्तु । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥yat | śalmalau | bhavati | yat | nadīṣu | yat | oṣadhībhyaḥ | pari | jāyate | viṣam | viśve | devāḥ | niḥ | itaḥ | tat | suvantu | mā | mām | padyena | rapasā | vidat | tsaruḥ