Sukta 7.50
यद्विजामन्परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत् । अग्निष्टच्छोचन्नप बाधतामितो मा मां पद्येन रपसा विदत्त्सरुः ॥
यद्वि॒जाम॒न्परु॑षि॒ वन्द॑नं॒ भुव॑दष्ठी॒वन्तौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् । अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरु॑: ॥
yád vijā́man páruṣi vándanaṃ bhúvad aṣṭhī́vantau pári kulpháu ca déhat | agníṣ tát śócan ápa bā́dhatām itó mā́ māṃ padyéna rápasā vidat tsarúḥ ||
If, O widely-moving one, there arises in the joints a crippling constriction—binding around the ankle-bones and the heel—then may Agni, burning with his luminous force, drive it away from here; let not the stinging power find me by stealthy step or violent onset.
यत् । वि॒ऽजाम॑न् । परु॑षि । वन्द॑नम् । भुव॑त् । अ॒ष्ठी॒वन्तौ॑ । परि॑ । कु॒ल्फौ । च॒ । देह॑त् । अ॒ग्निः । तत् । शोच॑न् । अप॑ । बा॒ध॒ता॒म् । इ॒तः । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥यत् । विजामन् । परुषि । वन्दनम् । भुवत् । अष्ठीवन्तौ । परि । कुल्फौ । च । देहत् । अग्निः । तत् । शोचन् । अप । बाधताम् । इतः । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥yat | vi-jāman | paruṣi | vandanam | bhuvat | aṣṭhīvantau | pari | kulphau | ca | dehat | agniḥ | tat | śocan | apa | bādhatām | itaḥ | mā | mām | padyena | rapasā | vidat | tsaruḥ