Sukta 7.50
याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः । ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥
याः प्र॒वतो॑ नि॒वत॑ उ॒द्वत॑ उद॒न्वती॑रनुद॒काश्च॒ याः । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वन्तु॒ सर्वा॑ न॒द्यो॑ अशिमि॒दा भ॑वन्तु ॥
yā́ḥ právato nívata udváta udanvátīr anudakā́ś ca yā́ḥ | tā́ asmábhyaṃ páyasā pínvamānāḥ śivā́ devī́r aśipádā bhavantu sárvā nadyo aśimídā bhavantu ||
May all the Waters—those of the slopes, the lowlands, the heights; those rich with oceanic vastness and those of smaller flow—swelling for us with nourishing sweetness, become benign goddesses without harm to the step; may all the rivers become givers of what is uninjuring and uncutting.
याः । प्र॒ऽवतः॑ । नि॒ऽवतः॑ । उ॒त्ऽवतः॑ । उ॒द॒न्ऽवतीः॑ । अ॒नु॒द॒काः । च॒ । याः । ताः । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑मानाः । शि॒वाः । दे॒वीः । अ॒शि॒प॒दाः । भ॒व॒न्तु॒ । सर्वाः॑ । न॒द्यः॑ । अ॒शि॒मि॒दाः । भ॒व॒न्तु॒ ॥याः । प्रवतः । निवतः । उत्वतः । उदन्वतीः । अनुदकाः । च । याः । ताः । अस्मभ्यम् । पयसा । पिन्वमानाः । शिवाः । देवीः । अशिपदाः । भवन्तु । सर्वाः । नद्यः । अशिमिदाः । भवन्तु ॥yāḥ | pra-vataḥ | ni-vataḥ | ut-vataḥ | udan-vatīḥ | anudakāḥ | ca | yāḥ | tāḥ | asmabhyam | payasā | pinvamānāḥ | śivāḥ | devīḥ | aśipadāḥ | bhavantu | sarvāḥ | nadyaḥ | aśimidāḥ | bhavantu