Sukta 7.5
तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व । वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः ॥
तं नो॑ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं॑ युवस्व । वैश्वा॑नर॒ महि॑ न॒: शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषा॑: ॥
táṃ no agne maghávad-bhyaḥ puru-kṣúṃ rayíṃ ní vā́jaṃ śrutyáṃ yúvasva | vaiśvānara máhi naḥ śárma yaccha rudrébhir agne vásubhiḥ sajóṣāḥ ||
For us, O Agni, yoke in a rich plenitude—abundant in increase—for the bountiful; and a vāja that is heard of, a forceful fullness. O Vaiśvānara, grant us great peace and shelter, together with the Rudras and the Vasus in one accord—establishing a protected wideness for the journey.
तम् । नः॒ । अ॒ग्ने॒ । म॒घव॑त्ऽभ्यः । पु॒रु॒ऽक्षुम् । र॒यिम् । नि । वाज॑म् । श्रुत्य॑म् । यु॒व॒स्व॒ । वैश्वा॑नर । महि॑ । नः॒ । शर्म॑ । य॒च्छ॒ । रु॒द्रेभिः॑ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ ॥तम् । नः । अग्ने । मघवत्भ्यः । पुरुक्षुम् । रयिम् । नि । वाजम् । श्रुत्यम् । युवस्व । वैश्वानर । महि । नः । शर्म । यच्छ । रुद्रेभिः । अग्ने । वसुभिः । सजोषाः ॥tam | naḥ | agne | maghavat-bhyaḥ | puru-kṣum | rayim | ni | vājam | śrutyam | yuvasva | vaiśvānara | mahi | naḥ | śarma | yaccha | rudrebhiḥ | agne | vasu-bhiḥ | sa-joṣāḥ