Sukta 7.49
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् । मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु ॥
यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुत॒: शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥
yā́sāṃ rājā́ váruṇo yā́ti mádhye satyānṛté avapáśyan jánānām | madhú-ścutaḥ śúcayo yā́ḥ pāvakā́s tā́ ā́po devī́r ihá mām avantu ||
The waters in whose midst King Varuṇa moves, observing among men the true and the untrue—those pure waters, dripping sweetness, purifying and bright—may those divine Waters protect me here.
यासा॑म् । राजा॑ । वरु॑णः । याति॑ । मध्ये॑ । स॒त्या॒नृ॒ते इति॑ । अ॒व॒ऽपश्य॑न् । जना॑नाम् । म॒धु॒ऽश्चुतः॑ । शुच॑यः । याः । पा॒व॒काः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥यासाम् । राजा । वरुणः । याति । मध्ये । सत्यानृते इति । अवपश्यन् । जनानाम् । मधुश्चुतः । शुचयः । याः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥yāsām | rājā | varuṇaḥ | yāti | madhye | satyānṛte iti | ava-paśyan | janānām | madhu-ścutaḥ | śucayaḥ | yāḥ | pāvakāḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu