Sukta 7.49
या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः । समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ॥
या आपो॑ दि॒व्या उ॒त वा॒ स्रव॑न्ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः । स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥
yā́ ā́po divyā́ utá vā́ srávanti khanitrímā utá vā́ yā́ḥ svayaṃjā́ḥ | samudrā́rthā yā́ḥ śúcayaḥ pāvakā́s tā́ ā́po devī́r ihá mām avantu ||
Whether the waters flow from heaven, or are drawn from wells, or are self-born; whether they move toward the ocean—those bright, purifying waters, may those divine Waters protect me here.
याः । आपः॑ । दि॒व्याः । उ॒त । वा॒ । स्रव॑न्ति । ख॒नित्रि॑माः । उ॒त । वा॒ । याः । स्व॒य॒म्ऽजाः । स॒मु॒द्रऽअ॑र्थाः । याः । शुच॑यः । पा॒व॒काः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥याः । आपः । दिव्याः । उत । वा । स्रवन्ति । खनित्रिमाः । उत । वा । याः । स्वयम्जाः । समुद्रअर्थाः । याः । शुचयः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥yāḥ | āpaḥ | divyāḥ | uta | vā | sravanti | khanitrimāḥ | uta | vā | yāḥ | svayam-jāḥ | samudra-arthāḥ | yāḥ | śucayaḥ | pāvakāḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu