Sukta 7.49
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति । वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु ॥
यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे॑ दे॒वा यासूर्ज॒॒ मद॑न्ति । वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥
yā́su rājā́ váruṇo yā́su sómo víśve devā́ yā́sū́rjaṃ mádanti | vaiśvānaráḥ yā́sv agníḥ práviṣṭas tā́ ā́po devī́r ihá mā́m avantu ||
May those divine Waters—within whom King Varuṇa (the vast law of right order) is sovereign, within whom Soma (the delight of conscious immortality) flows, in whom all the gods rejoice in the increase of inner plenitude—may those Waters, into whom the universal Fire (Vaiśvānara Agni) has entered, protect me here.
यासु॑ । राजा॑ । वरु॑णः । यासु॑ । सोमः॑ । विश्वे॑ । दे॒वाः । यासु॑ । ऊर्ज॑म् । मद॑न्ति । वै॒श्वा॒न॒रः । यासु॑ । अ॒ग्निः । प्रऽवि॑ष्टः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥यासु । राजा । वरुणः । यासु । सोमः । विश्वे । देवाः । यासु । ऊर्जम् । मदन्ति । वैश्वानरः । यासु । अग्निः । प्रविष्टः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥yāsu | rājā | varuṇaḥ | yāsu | somaḥ | viśve | devāḥ | yāsu | ūrjam | madanti | vaiśvānaraḥ | yāsu | agniḥ | pra-viṣṭaḥ | tāḥ | āpaḥ | devīḥ | iha | mām | avantu