Sukta 7.49
समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः । इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥
स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना य॒न्त्यनि॑विशमानाः । इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥
samudrá-jyeṣṭhāḥ salilásya mádhyāt punānā́ yánty aní-viśamānāḥ | índro yā́ vajrī́ vṛṣabhó rarā́da tā́ ā́po devī́r ihá mām avantu ||
Eldest in the ocean, from the midst of the waters, purifying, they move on without settling into any fixed place. Those Waters whom Indra, the wielder of the thunderbolt, the Bull, has made to resound—may those divine Waters protect me here.
स॒मु॒द्रऽज्ये॑ष्ठाः । स॒लि॒लस्य॑ । मध्या॑त् । पु॒ना॒नाः । य॒न्ति॒ । अनि॑ऽविशमानाः । इन्द्रः॑ । या । व॒ज्री । वृ॒ष॒भः । र॒राद॑ । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥समुद्रज्येष्ठाः । सलिलस्य । मध्यात् । पुनानाः । यन्ति । अनिविशमानाः । इन्द्रः । या । वज्री । वृषभः । रराद । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥samudra-jyeṣṭhāḥ | salilasya | madhyāt | punānāḥ | yanti | ani-viśamānāḥ | indraḥ | yā | vajrī | vṛṣabhaḥ | rarāda | tāḥ | āpaḥ | devīḥ | iha | mām | avantu