Sukta 7.48
ऋभुॠभुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि । वाजो अस्माँ अवतु वाजसाताविन्द्रेण युजा तरुषेम वृत्रम् ॥
ऋ॒भुॠ॒भुभि॑र॒भि व॑: स्याम॒ विभ्वो॑ वि॒भुभि॒: शव॑सा॒ शवां॑सि । वाजो॑ अ॒स्माँ अ॑वतु॒ वाज॑साता॒विन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम् ॥
ṛbhúḥ ṛbhúbhir abhí vaḥ syāma víbhvo vibhúbhiḥ śávasā śávāṃsi | vājò asmā́ṃ avatu vāja-sātāv índreṇa yujā́ taruṣema vṛtrám ||
May we be encompassed by the R̥bhu with the R̥bhus; may Vibhvan, with the all-pervading ones, strengthen our strengths by force. May Vāja guard us in the winning of plenitude; yoked with Indra, may we overpass Vṛtra.
ऋ॒भुः । ऋ॒भुऽभिः॑ । अ॒भि । वः॒ । स्या॒म॒ । विऽभ्वः॑ । वि॒ऽभुमिः॑ । शव॑सा । शवां॑सि । वाजः॑ । अ॒स्मान् । अ॒व॒तु॒ । वाज॑ऽसातौ । इन्द्रे॑ण । यु॒जा । त॒रु॒षे॒म॒ । वृ॒त्रम् ॥ऋभुः । ऋभुभिः । अभि । वः । स्याम । विभ्वः । विभुमिः । शवसा । शवांसि । वाजः । अस्मान् । अवतु । वाजसातौ । इन्द्रेण । युजा । तरुषेम । वृत्रम् ॥ṛbhuḥ | ṛbhu-bhiḥ | abhi | vaḥ | syāma | vi-bhvaḥ | vi-bhumiḥ | śavasā | śavāṃsi | vājaḥ | asmān | avatu | vāja-sātau | indreṇa | yujā | taruṣema | vṛtram