Sukta 7.48
ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य । आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥
ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ । आ वो॒ऽर्वाच॒: क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयन्तु ॥
ṛ́bhu-kṣaṇo vājā mā́dayadhvam asmē naro maghavānaḥ sutásya | ā́ vo’rvā́caḥ krátavo ná yātāṃ víbhvo ráthaṃ náryaṃ vartayantu ||
O Rbhukṣaṇa and Vāja, rejoice here in us in the pressed Soma, O heroic givers. Let your efficacious powers come toward us; let the all-pervading ones set in motion the manly chariot (of the work).
ऋभु॑ऽक्षणः । वा॒जाः॒ । मा॒दय॑ध्वम् । अ॒स्मे इति॑ । न॒रः॒ । म॒घ॒ऽवा॒नः॒ । सु॒तस्य॑ । आ । वः॒ । अ॒र्वाचः॑ । क्रत॑वः । न । या॒ताम् । विऽभ्वः॑ । रथ॑म् । नर्य॑म् । व॒र्त॒य॒न्तु॒ ॥ऋभुक्षणः । वाजाः । मादयध्वम् । अस्मे इति । नरः । मघवानः । सुतस्य । आ । वः । अर्वाचः । क्रतवः । न । याताम् । विभ्वः । रथम् । नर्यम् । वर्तयन्तु ॥ṛbhu-kṣaṇaḥ | vājāḥ | mādayadhvam | asme iti | naraḥ | magha-vānaḥ | sutasya | ā | vaḥ | arvācaḥ | kratavaḥ | na | yātām | vi-bhvaḥ | ratham | naryam | vartayantu