Sukta 7.46
या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः । सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥
या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः । स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥
yā́ te didyúd áva-sṛṣṭā divás pári kṣmáyā́ cárati pári sā́ vṛṇaktu naḥ | sahásraṃ te su-apivāta bheṣajā́ mā́ nas tókēṣu tánayeṣu rīriṣaḥ ||
That lightning of yours, loosed from heaven, that moves around upon the earth—let it turn away from us. A thousand are your well-breathed medicines; do not harm us in our children and in our becomings.
या । ते॒ । दि॒द्युत् । अव॑ऽसृष्टा । दि॒वः । परि॑ । क्ष्म॒या । चर॑ति । परि॑ । सा । वृ॒ण॒क्तु॒ । नः॒ । स॒हस्र॑म् । ते॒ । सु॒ऽअ॒पि॒वा॒त॒ । भे॒ष॒जा । मा । नः॒ । तो॒केषु॑ । तन॑येषु । रि॒रि॒षः॒ ॥या । ते । दिद्युत् । अवसृष्टा । दिवः । परि । क्ष्मया । चरति । परि । सा । वृणक्तु । नः । सहस्रम् । ते । सुअपिवात । भेषजा । मा । नः । तोकेषु । तनयेषु । रिरिषः ॥yā | te | didyut | ava-sṛṣṭā | divaḥ | pari | kṣmayā | carati | pari | sā | vṛṇaktu | naḥ | sahasram | te | su-apivāta | bheṣajā | mā | naḥ | tokeṣu | tanayeṣu | ririṣaḥ