Sukta 7.46
स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति । अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव ॥
स हि क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑न॒: साम्रा॑ज्येन दि॒व्यस्य॒ चेत॑ति । अव॒न्नव॑न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥
sá hí kṣáyeṇa kṣámyasya jánmanaḥ sā́mrājyena divyásya cétati | ávan návántīr úpa no dúraś carān amīvó rudra jā́su no bhava ||
For he is aware through the settled dwelling of earthly birth, and through the sovereign mastery of the divine. Come near to us with protecting helps; move around our doors. O Rudra, be for us without hurt, be swiftly our refuge.
सः । हि । क्षये॑ण । क्षम्य॑स्य । जन्म॑नः । साम्ऽरा॑ज्येन । दि॒व्यस्य॑ । चेत॑ति । अव॑न् । अव॑न्तीः । उप॑ । नः॒ । दुरः॑ । च॒र॒ । अ॒न॒मी॒वः । रु॒द्र॒ । जासु॑ । नः॒ । भ॒व॒ ॥सः । हि । क्षयेण । क्षम्यस्य । जन्मनः । साम्राज्येन । दिव्यस्य । चेतति । अवन् । अवन्तीः । उप । नः । दुरः । चर । अनमीवः । रुद्र । जासु । नः । भव ॥saḥ | hi | kṣayeṇa | kṣamyasya | janmanaḥ | sām-rājyena | divyasya | cetati | avan | avantīḥ | upa | naḥ | duraḥ | cara | anamīvaḥ | rudra | jāsu | naḥ | bhava