Sukta 7.44
दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन् । संविदान उषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः ॥
द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन् । सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ॥
dadhikrā́vā prathamó vājī́ arvā́gre rathā́nāṁ bhávati prajā́nann | saṁvidāná uṣásā sū́ryeṇādityébhiḥ vásubhir áṅgirobhiḥ ||
Dadhikrāvan, the first, the charger, becomes foremost among the chariots, knowing the way. He is in accord with Dawn and with the Sun, with the Ādityas, the Vasus, and the Angirasas—powers of ordered light that lead the advance.
द॒धि॒ऽक्रावा॑ । प्र॒थ॒मः । वा॒जी । अर्वा॑ । अग्रे॑ । रथा॑नाम् । भ॒व॒ति॒ । प्र॒ऽजा॒नन् । स॒म्ऽवि॒दा॒नः । उ॒षसा॑ । सूर्ये॑ण । आ॒दि॒त्येभिः॑ । वसु॑ऽभिः । अङ्गि॑रःऽभिः ॥दधिक्रावा । प्रथमः । वाजी । अर्वा । अग्रे । रथानाम् । भवति । प्रजानन् । सम्विदानः । उषसा । सूर्येण । आदित्येभिः । वसुभिः । अङ्गिरःभिः ॥dadhi-krāvā | prathamaḥ | vājī | arvā | agre | rathānām | bhavati | pra-jānan | sam-vidānaḥ | uṣasā | sūryeṇa | ādityebhiḥ | vasu-bhiḥ | aṅgiraḥ-bhiḥ