Sukta 7.44
आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ । शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥
आ नो॑ दधि॒क्राः प॒थ्या॑मनक्त्वृ॒तस्य॒ पन्था॒मन्वे॑त॒वा उ॑ । शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो॑ अ॒ग्निः शृ॒ण्वन्तु॒ विश्वे॑ महि॒षा अमू॑राः ॥
ā nó dadhikrā́ḥ pathyā́m anaktv ṛtásya pánthām ánv etavā́ u | śṛṇótu no daívyam śárdho agníḥ śṛṇvántu víśve mahiṣā́ amū́rāḥ ||
May Dadhikrāvan anoint for us the path that is fit to be travelled, so that we may follow the Path of Ṛta (the right and true order). May Agni, the divine host of the Will, hear us; and may all the mighty, unbewildered powers listen within us.
आ । नः॒ । द॒धि॒ऽक्राः । प॒थ्या॑म् । अ॒न॒क्तु॒ । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊँ॒ इति॑ । शृ॒णोतु॑ । नः॒ । दैव्य॑म् । शर्धः॑ । अ॒ग्निः । शृ॒ण्वन्तु॑ । विश्वे॑ । म॒हि॒षाः । अमू॑राः ॥आ । नः । दधिक्राः । पथ्याम् । अनक्तु । ऋतस्य । पन्थाम् । अनुएतवै । ऊँ इति । शृणोतु । नः । दैव्यम् । शर्धः । अग्निः । शृण्वन्तु । विश्वे । महिषाः । अमूराः ॥ā | naḥ | dadhi-krāḥ | pathyām | anaktu | ṛtasya | panthām | anu-etavai | oṃ iti | śṛṇotu | naḥ | daivyam | śardhaḥ | agniḥ | śṛṇvantu | viśve | mahiṣāḥ | amūrāḥ