Sukta 7.44
दधिक्रावाणं बुबुधानो अग्निमुप ब्रुव उषसं सूर्यं गाम् । ब्रध्नं माँश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद्दुरिता यावयन्तु ॥
द॒धि॒क्रावा॑णं बुबुधा॒नो अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गाम् । ब्र॒ध्नं माँ॑श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या॑वयन्तु ॥
dadhikrā́vāṇaṁ bubudhā́no agním úpa bruve uṣásaṁ sū́ryaṁ gā́m | bradhnáṁ mā́ṁścatór váruṇasya babhrúṁ té víśvāsmád duritā́ yāvayantu ||
Waking to Dadhikrāvan, I speak near to Agni, to Dawn, to the Sun, to the Ray of Light. To the shining one, to the tawny strength of Varuṇa—may they drive away from us all evil passages and distortions.
द॒धि॒ऽक्रावा॑णम् । बु॒बु॒धा॒नः । अ॒ग्निम् । उप॑ । ब्रु॒वे॒ । उ॒षस॑म् । सूर्य॑म् । गाम् । ब्र॒ध्नम् । मँ॒ंश्च॒तोः । वरु॑णस्य । ब॒भ्रुम् । ते । विश्वा॑ । अ॒स्मत् । दुः॒ऽइ॒ता । य॒व॒य॒न्तु॒ ॥दधिक्रावाणम् । बुबुधानः । अग्निम् । उप । ब्रुवे । उषसम् । सूर्यम् । गाम् । ब्रध्नम् । मँंश्चतोः । वरुणस्य । बभ्रुम् । ते । विश्वा । अस्मत् । दुःइता । यवयन्तु ॥dadhi-krāvāṇam | bubudhānaḥ | agnim | upa | bruve | uṣasam | sūryam | gām | bradhnam | māṃścatoḥ | varuṇasya | babhrum | te | viśvā | asmat | duḥ-itā | yavayantu