Sukta 7.44
दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः । इळां देवीं बर्हिषि सादयन्तोऽश्विना विप्रा सुहवा हुवेम ॥
द॒धि॒क्रामु॒ नम॑सा बो॒धय॑न्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्त॑: । इळां॑ दे॒वीं ब॒र्हिषि॑ सा॒दय॑न्तो॒ऽश्विना॒ विप्रा॑ सु॒हवा॑ हुवेम ॥
dadhikrā́m u námasā bodháyanta utī́rāṇā yajñám upaprayántaḥ | iḷā́ṁ devī́ṁ bárhiṣi sā́dayanto 'śvínā víprā suháva huvema ||
Awakening Dadhikrāvan with reverence, rising up and advancing toward the sacrifice, we set the goddess Iḷā upon the sacred seat; we inspired ones call the Aśvins with a good call, for they come readily.
द॒धि॒ऽक्राम् । ऊँ॒ इति॑ । नम॑सा । बो॒धय॑न्तः । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ । इळा॑म् । दे॒वीम् । ब॒र्हिषि॑ । सा॒दय॑न्तः । अ॒श्विना॑ । विप्राः॑ । सु॒ऽहवा॑ । हु॒वे॒म॒ ॥दधिक्राम् । ऊँ इति । नमसा । बोधयन्तः । उत्ईराणाः । यज्ञम् । उपप्रयन्तः । इळाम् । देवीम् । बर्हिषि । सादयन्तः । अश्विना । विप्राः । सुहवा । हुवेम ॥dadhi-krām | oṃ iti | namasā | bodhayantaḥ | ut-īrāṇāḥ | yajñam | upa-prayantaḥ | iḷām | devīm | barhiṣi | sādayantaḥ | aśvinā | viprāḥ | su-havā | huvema