Sukta 7.44
दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे । इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः ॥
द॒धि॒क्रां व॑: प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे । इन्द्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्व॑: ॥
dadhikrā́ṁ vaḥ prathamám aśvínóṣasam agníṁ samídhdaṁ bhágam ūtáye huve | índraṁ víṣṇuṁ pū́ṣaṇaṁ bráhmaṇas-pátim ādityā́n dyā́vā-pṛthivī́ apáḥ svàḥ ||
First I call for you Dadhikrāvan, and the Aśvins, and Dawn; I call Agni kindled, and Bhaga for the help. Indra and Viṣṇu, Pūṣan and Brahmaṇaspati, the Ādityas, Heaven and Earth, the Waters, and the luminous world—come as powers of aid within us.
द॒धि॒ऽक्राम् । वः॒ । प्र॒थ॒मम् । अ॒श्विना॑ । उ॒षस॑म् । अ॒ग्निम् । सम्ऽइ॑द्धम् । भग॑म् । ऊ॒तये॑ । हु॒वे॒ । इन्द्र॑म् । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्वः॑ ॥दधिक्राम् । वः । प्रथमम् । अश्विना । उषसम् । अग्निम् । सम्इद्धम् । भगम् । ऊतये । हुवे । इन्द्रम् । विष्णुम् । पूषणम् । ब्रह्मणः । पतिम् । आदित्यान् । द्यावापृथिवी इति । अपः । स्वः ॥dadhi-krām | vaḥ | prathamam | aśvinā | uṣasam | agnim | sam-iddham | bhagam | ūtaye | huve | indram | viṣṇum | pūṣaṇam | brahmaṇaḥ | patim | ādityān | dyāvāpṛth ivī iti | apaḥ | svaḥ