Sukta 7.43
ते सीषपन्त जोषमा यजत्रा ऋतस्य धाराः सुदुघा दुहानाः । ज्येष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति ष्ठ ॥
ते सी॑षपन्त॒ जोष॒मा यज॑त्रा ऋ॒तस्य॒ धारा॑: सु॒दुघा॒ दुहा॑नाः । ज्येष्ठं॑ वो अ॒द्य मह॒ आ वसू॑ना॒मा ग॑न्तन॒ सम॑नसो॒ यति॒ ष्ठ ॥
té sī́ṣapanta jóṣam ā́ yájatṛā ṛtásya dhā́rāḥ sudúghā dúhānāḥ | jyéṣṭhaṁ vo adyá máha ā́ vasū́nām ā́ gantana sámanaso yáti ṣṭha ||
May those adorable streams of the Truth press forward to the delight, richly milking their abundance. Come today, harmonized in mind, to your highest greatness, to the supreme plenitude of the Vasus.
ते । सी॒ष॒प॒न्त॒ । जोष॑म् । आ । यज॑त्राः । ऋ॒तस्य॑ । धाराः॑ । सु॒ऽदुघाः॑ । दुहा॑नाः । ज्येष्ठ॑म् । वः॒ । अ॒द्य । महः॑ । आ । वसू॑नाम् । आ । ग॒न्त॒न॒ । सऽम॑नसः । यति॑ । स्थ ॥ते । सीषपन्त । जोषम् । आ । यजत्राः । ऋतस्य । धाराः । सुदुघाः । दुहानाः । ज्येष्ठम् । वः । अद्य । महः । आ । वसूनाम् । आ । गन्तन । समनसः । यति । स्थ ॥te | sīṣapanta | joṣam | ā | yajatrāḥ | ṛtasya | dhārāḥ | su-dughāḥ | duhānāḥ | jyeṣṭham | vaḥ | adya | mahaḥ | ā | vasūnām | ā | gantana | sa-manasaḥ | yati | stha