Sukta 7.43
आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु । आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मृधस्कः ॥
आ पु॒त्रासो॒ न मा॒तरं॒ विभृ॑त्रा॒: सानौ॑ दे॒वासो॑ ब॒र्हिष॑: सदन्तु । आ वि॒श्वाची॑ विद॒थ्या॑मन॒क्त्वग्ने॒ मा नो॑ दे॒वता॑ता॒ मृध॑स्कः ॥
ā́ putrā́so ná mātáraṁ víbhṛtrāḥ sā́nau devā́so bárhiṣaḥ sadantu | ā́ viśvā́cī vidathyā́m anaktv ágne mā́ no devátātā mṛ́dhas kaḥ ||
Let the gods sit upon the sacred seat, as sons around a mother, sustaining her on the summit. O Agni, anoint the wide-ranging sacred session; let not the hostile force touch our divine becoming.
आ । पु॒त्रासः॑ । न । मा॒तर॑म् । विऽभृ॑त्राः । सानौ॑ । दे॒वासः॑ । ब॒र्हिषः॑ । स॒द॒न्तु॒ । आ । वि॒श्वाची॑ । वि॒द॒थ्या॑म् । अ॒न॒क्तु॒ । अग्ने॑ । मा । नः॒ । दे॒वऽता॑ता । मृधः॑ । क॒रिति॑ कः ॥आ । पुत्रासः । न । मातरम् । विभृत्राः । सानौ । देवासः । बर्हिषः । सदन्तु । आ । विश्वाची । विदथ्याम् । अनक्तु । अग्ने । मा । नः । देवताता । मृधः । करिति कः ॥ā | putrāsaḥ | na | mātaram | vi-bhṛtrāḥ | sānau | devāsaḥ | barhiṣaḥ | sadantu | ā | viśvācī | vidathyām | anaktu | agne | mā | naḥ | deva-tātā | mṛdhaḥ | karitikaḥ