Sukta 7.43
एवा नो अग्ने विक्ष्वा दशस्य त्वया वयं सहसावन्नास्क्राः । राया युजा सधमादो अरिष्टा यूयं पात स्वस्तिभिः सदा नः ॥
ए॒वा नो॑ अग्ने वि॒क्ष्वा द॑शस्य॒ त्वया॑ व॒यं स॑हसाव॒न्नास्क्रा॑: । रा॒या यु॒जा स॑ध॒मादो॒ अरि॑ष्टा यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
evā́ no agne vikṣvā́ daśasya tváyā vayáṁ sahasāvann ā́skrāḥ | rāyā́ yujā́ sadhámādo áriṣṭā yūyáṁ pāta svastíbhíḥ sadā́ naḥ ||
So, O Agni, show thy favour among our peoples; with thee, O strong one, we become unharmed and unshaken. Joined with the plenitude, in the common delight, intact—do you Powers guard us always with your harmonies of well-being.
ए॒व । नः॒ । अ॒ग्ने॒ । वि॒क्षु । आ । द॒श॒स्य॒ । त्वया॑ । व॒यम् । स॒ह॒सा॒ऽव॒न् । आस्क्राः॑ । रा॒या । यु॒जा । स॒ध॒ऽमादः॑ । अरि॑ष्टाः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एव । नः । अग्ने । विक्षु । आ । दशस्य । त्वया । वयम् । सहसावन् । आस्क्राः । राया । युजा । सधमादः । अरिष्टाः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥eva | naḥ | agne | vikṣu | ā | daśasya | tvayā | vayam | sahasāvan | āskrāḥ | rāyā | yujā | sadha-mādaḥ | ariṣṭāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ