Sukta 7.43
प्र यज्ञ एतु हेत्वो न सप्तिरुद्यच्छध्वं समनसो घृताचीः । स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः ॥
प्र य॒ज्ञ ए॑तु॒ हेत्वो॒ न सप्ति॒रुद्य॑च्छध्वं॒ सम॑नसो घृ॒ताची॑: । स्तृ॒णी॒त ब॒र्हिर॑ध्व॒राय॑ सा॒धूर्ध्वा शो॒चींषि॑ देव॒यून्य॑स्थुः ॥
prá yajñá étu hétvo ná saptír údyacchadhvaṁ sámanaso ghṛtā́cīḥ | stṛṇītá bárhir adhvarā́ya sādhū́rdhvā́ śocī́ṁṣi devayū́ny asthuḥ ||
Let the sacrifice go forward like a swift horse to the goal; rise up, united in mind, you streams of clarified light. Spread the sacred seat for the faultless journey; let the flames stand upright, godward, in their luminous intensities.
प्र । य॒ज्ञः । ए॒तु॒ । हेत्वः॑ । न । सप्तिः॑ । उत् । य॒च्छ॒ध्व॒म् । सऽम॑नसः । घृ॒ताचीः॑ । स्तृ॒णी॒त । ब॒र्हिः । अ॒ध्व॒राय॑ । सा॒धु । ऊ॒र्ध्वा । शो॒चींषि॑ । दे॒व॒ऽयूनि॑ । अ॒स्थुः॒ ॥प्र । यज्ञः । एतु । हेत्वः । न । सप्तिः । उत् । यच्छध्वम् । समनसः । घृताचीः । स्तृणीत । बर्हिः । अध्वराय । साधु । ऊर्ध्वा । शोचींषि । देवयूनि । अस्थुः ॥pra | yajñaḥ | etu | hetvaḥ | na | saptiḥ | ut | yacchadhvam | sa-manasaḥ | ghṛtācīḥ | stṛṇīta | barhiḥ | adhvarāya | sādhu | ūrdhvā | śocīṃṣi | deva-yūni | asthuḥ