Sukta 7.43
प्र वो यज्ञेषु देवयन्तो अर्चन्द्यावा नमोभिः पृथिवी इषध्यै । येषां ब्रह्माण्यसमानि विप्रा विष्वग्वियन्ति वनिनो न शाखाः ॥
प्र वो॑ य॒ज्ञेषु॑ देव॒यन्तो॑ अर्च॒न्द्यावा॒ नमो॑भिः पृथि॒वी इ॒षध्यै॑ । येषां॒ ब्रह्मा॒ण्यस॑मानि॒ विप्रा॒ विष्व॑ग्वि॒यन्ति॑ व॒निनो॒ न शाखा॑: ॥
prá vo yajñéṣu devayánto arcann dyā́vā námobhiḥ pṛthivī́ iṣádhyai | yeṣā́m bráhmāṇy ásamāni víprā víṣvag víyanti vaníno ná śā́khāḥ ||
Forward in the sacrifices the god-seeking seers chant for you; with acts of reverence they strengthen Heaven and Earth for the gaining of the impulsion. Their inspired formulations, unequalled, spread out in all directions like branches from a living tree.
प्र । वः॒ । य॒ज्ञेषु॑ । दे॒व॒ऽयन्तः॑ । अ॒र्च॒न् । द्यावा॑ । नमः॑ऽभिः । पृ॒थि॒वी इति॑ । इ॒षध्यै॑ । येषा॑म् । ब्रह्मा॑णि । अस॑मानि । विप्राः॑ । विष्व॑क् । वि॒ऽयन्ति॑ । व॒निनः॑ । न । शाखाः॑ ॥प्र । वः । यज्ञेषु । देवयन्तः । अर्चन् । द्यावा । नमःभिः । पृथिवी इति । इषध्यै । येषाम् । ब्रह्माणि । असमानि । विप्राः । विष्वक् । वियन्ति । वनिनः । न । शाखाः ॥pra | vaḥ | yajñeṣu | deva-yantaḥ | arcan | dyāvā | namaḥ-bhiḥ | pṛthivī iti | iṣadhyai | yeṣām | brahmāṇi | asamāni | viprāḥ | viṣvak | vi-yanti | vaninaḥ | na | śākhāḥ