Sukta 7.41
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒: सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वत॒: प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
áśvāvatīr gómātīr na uṣā́so vī́ravatīḥ sádám ucchantu bhadrā́ḥ | ghṛtáṃ dúhānā viśvátáḥ prápītā yūyáṃ pāta svastí-bhiḥ sádā naḥ ||
May the Dawns rise for us always, auspicious—rich in swift energies, rich in rays of illumination, rich in heroic powers. Milking the clarified delight, filled from every side, may you protect us always with states of well-being.
अश्व॑ऽवतीः । गोऽम॑तीः । नः॒ । उ॒षसः॑ । वी॒रऽव॑तीः । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्राः । घृ॒तम् । दुहा॑नाः । वि॒श्वतः॑ । प्रऽपी॑ताः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥अश्ववतीः । गोमतीः । नः । उषसः । वीरवतीः । सदम् । उच्छन्तु । भद्राः । घृतम् । दुहानाः । विश्वतः । प्रपीताः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥aśva-vatīḥ | go--matīḥ | naḥ | uṣasaḥ | vīra-vatīḥ | sadam | ucchantu | bhadrāḥ | ghṛtam | duhānāḥ | viśvataḥ | pra-pītāḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ