Sukta 7.40
अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः । विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥
अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो॑ व॒या विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॒विर्भि॑: । वि॒दे हि रु॒द्रो रु॒द्रियं॑ महि॒त्वं या॑सि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ॥
asyá devásya mīḷhúṣo vayā́ víṣṇor eṣásya prabhṛthé havírbhiḥ | vidé hí rudró rudriyáṃ mahitváṃ yāsiṣṭáṃ vártír aśvināv írāvat ||
With offerings we bring forward the vital powers for this gracious god—Vishnu in his forward-striding; for Rudra indeed knows the Rudrian greatness. May the Aśvins come by the best path of movement, rich in plenitude and right nourishment.
अ॒स्य । दे॒वस्य॑ । मी॒ळ्हुषः॑ । व॒याः । विष्णोः॑ । ए॒षस्य॑ । प्र॒ऽभृ॒थे । ह॒विःऽभिः॑ । वि॒दे । हि । रु॒द्रः । रु॒द्रिय॑म् । म॒हि॒ऽत्वम् । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ॥अस्य । देवस्य । मीळ्हुषः । वयाः । विष्णोः । एषस्य । प्रभृथे । हविःभिः । विदे । हि । रुद्रः । रुद्रियम् । महित्वम् । यासिष्टम् । वर्तिः । अश्विनौ । इरावत् ॥asya | devasya | mīḷhuṣaḥ | vayāḥ | viṣṇoḥ | eṣasya | pra-bhṛthe | haviḥ-bhiḥ | vide | hi | rudraḥ | rudriyam | mahi-tvam | yāsiṣṭam | vartiḥ | aśvinau | irāvat