Sukta 7.40
अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः । सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् ॥
अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा॑नो अर्य॒मापो॒ धुः । सु॒हवा॑ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ॥
ayáṃ hí netā́ váruṇa ṛtásya mitró rājāno aryámāpo dhúḥ | suháva devy áditir anarvā́ te no aṃhó áti parṣann áriṣṭān ||
This Varuṇa is indeed the leader of the Truth; Mitra and Aryaman are kings, and the Waters uphold the burden. May the well-invoked goddess Aditi, unfaltering, carry us beyond distress—may those powers bring us across, uninjured.
अ॒यम् । हि । ने॒ता । वरु॑णः । ऋ॒तस्य॑ । मि॒त्रः । राजा॑नः । अ॒र्य॒मा । अपः॑ । धुरिति॒ धुः । सु॒ऽहवा॑ । दे॒वी । अदि॑तिः । अ॒न॒र्वा । ते । नः॒ । अंहः॑ । अति॑ । प॒र्ष॒न् । अरि॑ष्टान् ॥अयम् । हि । नेता । वरुणः । ऋतस्य । मित्रः । राजानः । अर्यमा । अपः । धुरिति धुः । सुहवा । देवी । अदितिः । अनर्वा । ते । नः । अंहः । अति । पर्षन् । अरिष्टान् ॥ayam | hi | netā | varuṇaḥ | ṛtasya | mitraḥ | rājānaḥ | aryamā | apaḥ | dhuritidhuḥ | su-havā | devī | aditiḥ | anarvā | te | naḥ | aṃhaḥ | ati | parṣan | ariṣṭān