Sukta 7.40
मात्र पूषन्नाघृण इरस्यो वरूत्री यद्रातिषाचश्च रासन् । मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिं परिज्मा वातो ददातु ॥
मात्र॑ पूषन्नाघृण इरस्यो॒ वरू॑त्री॒ यद्रा॑ति॒षाच॑श्च॒ रास॑न् । म॒यो॒भुवो॑ नो॒ अर्व॑न्तो॒ नि पा॑न्तु वृ॒ष्टिं परि॑ज्मा॒ वातो॑ ददातु ॥
mā́tra pūṣann āghṛṇe irasyó varūtrī yád rātiṣā́caś ca rāsán | mayobhúvo no árvanto ní pāntu vṛṣṭíṃ parijmā́ vā́to dadātu ||
O Pūṣan, O glowing one, do not fail us here: may the protecting powers, and those who accompany the giving, grant. May the bliss-bringing steeds guard us firmly; and may the all-circling Wind bestow the rain—an outpouring of refreshing force.
मा । अत्र॑ । पू॒ष॒न् । आ॒घृ॒णे॒ । इ॒र॒स्यः॒ । वरू॑त्री । यत् । रा॒ति॒ऽसाचः॑ । च॒ । रास॑न् । म॒यः॒ऽभुवः॑ । नः॒ । अर्व॑न्तः । नि । पा॒न्तु॒ । वृ॒ष्टिम् । परि॑ऽज्मा । वातः॑ । द॒दा॒तु॒ ॥मा । अत्र । पूषन् । आघृणे । इरस्यः । वरूत्री । यत् । रातिसाचः । च । रासन् । मयःभुवः । नः । अर्वन्तः । नि । पान्तु । वृष्टिम् । परिज्मा । वातः । ददातु ॥mā | atra | pūṣan | āghṛṇe | irasyaḥ | varūtrī | yat | rāti-sācaḥ | ca | rāsan | mayaḥ-bhuvaḥ | naḥ | arvantaḥ | ni | pāntu | vṛṣṭim | pari-jmā | vātaḥ | dadātu