Sukta 7.40
मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु । दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च ॥
मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो॑ अर्य॒मा द॑दातु । दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥
mitrás tan no váruṇo rodasī ca dyúbhaktaṃ índro aryamā dadātu | dideṣṭu devy áditiḥ rékṇo vāyúś ca yán niyuváite bhágaś ca ||
May Mitra and Varuṇa, and the Two Worlds, give us that share apportioned by the luminous heaven; may Indra and Aryaman bestow it. Let the goddess Aditi point out to us the true riches, and Vāyu too, and Bhaga—whatever is yoked to our advance and movement.
मि॒त्रः । तत् । नः॒ । वरु॑णः । रोद॑सी॒ इति॑ । च॒ । द्युऽभ॑क्तम् । इन्द्रः॑ । अ॒र्य॒मा । द॒दा॒तु । दिदे॑ष्टु । दे॒वी । अदि॑तिः । रेक्णः॑ । वा॒युः । च॒ । यत् । नि॒यु॒वैते॒ इति॑ नि॒ऽयु॒वैते॑ । भगः॑ । च॒ ॥मित्रः । तत् । नः । वरुणः । रोदसी इति । च । द्युभक्तम् । इन्द्रः । अर्यमा । ददातु । दिदेष्टु । देवी । अदितिः । रेक्णः । वायुः । च । यत् । नियुवैते इति नियुवैते । भगः । च ॥mitraḥ | tat | naḥ | varuṇaḥ | rodasī iti | ca | dyu-bhaktam | indraḥ | aryamā | dadātu | dideṣṭu | devī | aditiḥ | rekṇaḥ | vāyuḥ | ca | yat | niyuvaiteitini-yuvaite | bhagaḥ | ca