Sukta 7.40
ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणाम् । यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥
ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणा॑म् । यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥
o śruṣṭír vidathyā sametu práti stómaṃ dadhīmahi turāṇām | yad adyá deváḥ savitā suvāti syāmāsya ratníno vibhāgé ||
O, may the listening power that belongs to the sacred assembly come together; we set our hymn in front for the swift-advancing powers. For today Savitṛ, the god who impels, sets in motion the giving; may we become participants in the distribution of his treasures of light.
ओ इति॑ । श्रु॒ष्टिः । वि॒द॒थ्या॑ । सम् । ए॒तु॒ । प्रति॑ । स्तोम॑म् । द॒धी॒म॒हि॒ । तु॒राणा॑म् । यत् । अ॒द्य । दे॒वः । स॒वि॒ता । सु॒वाति॑ । स्याम॑ । अ॒स्य॒ । र॒त्निनः॑ । वि॒ऽभा॒गे ॥ओ इति । श्रुष्टिः । विदथ्या । सम् । एतु । प्रति । स्तोमम् । दधीमहि । तुराणाम् । यत् । अद्य । देवः । सविता । सुवाति । स्याम । अस्य । रत्निनः । विभागे ॥o iti | śruṣṭiḥ | vidathyā | sam | etu | prati | stomam | dadhīmahi | turāṇām | yat | adya | devaḥ | savitā | suvāti | syāma | asya | ratninaḥ | vi-bhāge