Sukta 7.4
नहि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ । अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळेतु नव्यः ॥
न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद॑र्यो॒ मन॑सा॒ मन्त॒वा उ॑ । अधा॑ चि॒दोक॒: पुन॒रित्स ए॒त्या नो॑ वा॒ज्य॑भी॒षाळे॑तु॒ नव्य॑: ॥
náhi grabhā́yā́raṇaḥ su-śévo ’nyó-daryo mánasā́ mantavā́ u | ádhā cid ókaḥ púnar ít sá ety ā́ no vājí abhīṣā́ḷ etu návyaḥ ||
For Arani is not to be seized; he is gracious, yet to be grasped only by the mind’s true thinking, not by another’s belly-hunger. Even if the home is lost, he comes again to the dwelling; may the victorious force, the new impeller, come to us with conquering might.
न॒हि । ग्रभा॑य । अर॑णः । सु॒ऽशेवः॑ । अ॒न्यऽउ॑दर्यः । मन॑सा । मन्त॒वै । ऊँ॒ इति॑ । अध॑ । चि॒त् । ओकः॑ । पुनः॑ । इत् । सः । ए॒ति॒ । आ । नः॒ । वा॒जी । अ॒भी॒षाट् । ए॒तु॒ । नव्यः॑ ॥नहि । ग्रभाय । अरणः । सुशेवः । अन्यउदर्यः । मनसा । मन्तवै । ऊँ इति । अध । चित् । ओकः । पुनः । इत् । सः । एति । आ । नः । वाजी । अभीषाट् । एतु । नव्यः ॥nahi | grabhāya | araṇaḥ | su-śevaḥ | anya-udaryaḥ | manasā | mantavai | oṃ iti | adha | cit | okaḥ | punaḥ | it | saḥ | eti | ā | naḥ | vājī | abhīṣāṭ | etu | navyaḥ