Sukta 7.4
परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम । न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥
प॒रि॒षद्यं॒ ह्यर॑णस्य॒ रेक्णो॒ नित्य॑स्य रा॒यः पत॑यः स्याम । न शेषो॑ अग्ने अ॒न्यजा॑तम॒स्त्यचे॑तानस्य॒ मा प॒थो वि दु॑क्षः ॥
pari-sádyaṃ hy áraṇasya rékṇo nítyasya rāyáḥ pátayaḥ syāma | ná śéṣo agne anyá-jātam asty ácetānasya mā́ pátho ví dukṣaḥ ||
For the treasure that is to be won by right striving, for the eternal wealth, may we become its masters. O Agni, there is no remainder that is born otherwise; do not let the path of the unawakened be scattered for us—keep us in the right track of consciousness.
प॒रि॒ऽसद्य॑म् । हि । अर॑णस्य । रेक्णः॑ । नित्य॑स्य । रा॒यः । पत॑यः । स्या॒म॒ । न । शेषः॑ । अ॒ग्ने॒ । अ॒न्यऽजा॑तम् । अ॒स्ति॒ । अचे॑तानस्य । मा । प॒थः । वि । दु॒क्षः॒ ॥परिसद्यम् । हि । अरणस्य । रेक्णः । नित्यस्य । रायः । पतयः । स्याम । न । शेषः । अग्ने । अन्यजातम् । अस्ति । अचेतानस्य । मा । पथः । वि । दुक्षः ॥pari-sadyam | hi | araṇasya | rekṇaḥ | nityasya | rāyaḥ | patayaḥ | syāma | na | śeṣaḥ | agne | anya-jātam | asti | acetānasya | mā | pathaḥ | vi | dukṣaḥ