Sukta 7.4
स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः । सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः ॥
स गृत्सो॑ अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒ अज॑निष्ट मा॒तुः । सं यो वना॑ यु॒वते॒ शुचि॑द॒न्भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ॥
sa gṛtsó agnístarúṇaś cid astu yáto yáviṣṭho ájaniṣṭa mātúḥ | sáṃ yó vánā yuváte śúci-dam bhū́ri cid ánnā sám íd átti sadyáḥ ||
May that Agni be for us the keen and youthful power, he who from the Mother is born as the youngest; he who swiftly joins himself to the forests, giving purity, and at once consumes even abundant foods—so may he take up in us all that is to be transformed into light.
सः । गूत्सः॑ । अ॒ग्निः । तरु॑णः । चि॒त् । अ॒स्तु॒ । यतः॑ । यवि॑ष्ठः । अज॑निष्ट । मा॒तुः । सम् । यः । वना॑ । यु॒वते॑ । शुचि॑ऽदम् । भूरि॑ । चि॒त् । अन्ना॑ । सम् । इत् । अ॒त्ति॒ । स॒द्यः ॥सः । गूत्सः । अग्निः । तरुणः । चित् । अस्तु । यतः । यविष्ठः । अजनिष्ट । मातुः । सम् । यः । वना । युवते । शुचिदम् । भूरि । चित् । अन्ना । सम् । इत् । अत्ति । सद्यः ॥saḥ | gūtsaḥ | agniḥ | taruṇaḥ | cit | astu | yataḥ | yaviṣṭhaḥ | ajaniṣṭa | mātuḥ | sam | yaḥ | vanā | yuvate | śuci-dam | bhūri | cit | annā | sam | it | atti | sadyaḥ