Sukta 7.4
प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् । यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति ॥
प्र व॑: शु॒क्राय॑ भा॒नवे॑ भरध्वं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तम् । यो दैव्या॑नि॒ मानु॑षा ज॒नूंष्य॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥
prá vaḥ śukrā́ya bhā́nav e bharadhvaṃ havyáṃ matíṃ cā́gnáye su-pū́tam | yó daivyā́ni mā́nuṣā janū́ṃṣy ántar víśvāni vidmánā jígāti ||
Bring forward for the bright, shining Agni the well-purified offering and the illumined thought. He is the one who by his knowledge goes through all births within—divine and human—linking the whole becoming from inside.
प्र । वः॒ । शु॒क्राय॑ । भा॒नवे॑ । भ॒र॒ध्व॒म् । ह॒व्यम् । म॒तिम् । च॒ । अ॒ग्नये॑ । सुऽपू॑तम् । यः । दैव्या॑नि । मानु॑षा । ज॒नूंषि॑ । अ॒न्तः । विश्वा॑नि । वि॒द्मना॑ । जिगा॑ति ॥प्र । वः । शुक्राय । भानवे । भरध्वम् । हव्यम् । मतिम् । च । अग्नये । सुपूतम् । यः । दैव्यानि । मानुषा । जनूंषि । अन्तः । विश्वानि । विद्मना । जिगाति ॥pra | vaḥ | śukrāya | bhānave | bharadhvam | havyam | matim | ca | agnaye | su-pūtam | yaḥ | daivyāni | mānuṣā | janūṃṣi | antaḥ | viśvāni | vidmanā | jigāti