Sukta 7.4
अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे । नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच ॥
अ॒स्य दे॒वस्य॑ सं॒सद्यनी॑के॒ यं मर्ता॑सः श्ये॒तं ज॑गृ॒भ्रे । नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे॑ शुशोच ॥
asyá devásya saṃ-sády anī́ke yáṃ mártāsaḥ śyétam jagṛbhre | ní yó gṛbháṃ paúruṣeyīm uvóca durókam agnír āyáve śuśoca ||
In the presence, in the face of this god, mortals have seized the bright one; he who has spoken down the human grasping that makes the home hard to inhabit—Agni has blazed for the seeker, burning away the cramped dwelling of ignorance.
अ॒स्य । दे॒वस्य॑ । स॒म्ऽसदि॑ । अनी॑के । यम् । मर्ता॑सः । श्ये॒तम् । ज॒गृ॒भ्रे । नि । यः । गृभ॑म् । पौरु॑षेयीम् । उ॒वोच॑ । दुः॒ऽओक॑म् । अ॒ग्निः । आ॒यवे॑ । शु॒शो॒च॒ ॥अस्य । देवस्य । सम्सदि । अनीके । यम् । मर्तासः । श्येतम् । जगृभ्रे । नि । यः । गृभम् । पौरुषेयीम् । उवोच । दुःओकम् । अग्निः । आयवे । शुशोच ॥asya | devasya | sam-sadi | anīke | yam | martāsaḥ | śyetam | jagṛbhre | ni | yaḥ | gṛbham | pauruṣeyīm | uvoca | duḥ-okam | agniḥ | āyave | śuśoca