Sukta 7.36
अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः । उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥
अच्छा॒यं वो॑ मरुत॒: श्लोक॑ ए॒त्वच्छा॒ विष्णुं॑ निषिक्त॒पामवो॑भिः । उ॒त प्र॒जायै॑ गृण॒ते वयो॑ धुर्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
áchāyáṃ vo marutaḥ ślóká etv áchā víṣṇuṃ niṣikta-pā́m ávo-bhiḥ | utá prájāyai gṛṇaté váyo dhur yūyáṃ pāta svastí-bhiḥ sádā naḥ ||
Let this chant go straight to you, O Maruts; and straight to Viṣṇu, sprinkled with waters, by your helps. And for the offspring of the singer, bestow the widening life-force; you—guard us always with your harmonies of well-being.
अच्छ॑ । अ॒यम् । वः॒ । म॒रु॒तः॒ । श्लोकः॑ । ए॒तु॒ । अच्छ॑ । विष्णु॑म् । नि॒सि॒क्त॒ऽपाम् । अवः॑ऽभिः । उ॒त । प्र॒ऽजायै॑ । गृ॒ण॒ते । वयः॑ । धुः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥अच्छ । अयम् । वः । मरुतः । श्लोकः । एतु । अच्छ । विष्णुम् । निसिक्तपाम् । अवःभिः । उत । प्रजायै । गृणते । वयः । धुः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥accha | ayam | vaḥ | marutaḥ | ślokaḥ | etu | accha | viṣṇum | nisikta-pām | avaḥ-bh iḥ | uta | pra-jāyai | gṛṇate | vayaḥ | dhuḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ